प्रतिमाः पूजा च
This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.
“पूजा या क्रियते सा न कदापि ‘प्रतिमायाः’ । ‘प्रतिमाद्वारा’ अन्यत् एव तत्त्वं पूज्यते ।”
- परमहंसः
परमहंसः स्वस्य लघुपूजामन्दिरे
देवतानां पूजां महत्या श्रद्धया करोति
स्म । तस्य दृष्ट्या ताः आसन्
सजीवरूपाः । अन्यत्र गमनावसरे
एताः पञ्च मूर्तयः तेन सर्वदा अपि
नीयन्ते स्म ।

अद्य
नित्यानन्ददिव्यकलासंरक्षणविभागः इत्येषः परमहंसेन आरब्धेषु कार्येषु अन्यतमः । एतेन भारतीयदेवालयपरम्परा मानवक़ुलाय रक्षिता भवति । अत्र शिला-लोह-काष्ठमणिशिलाभिः देवताप्रतिमानिर्माणं, द्राविडशैलया मन्दिरनिर्माणं, लोहपत्रकार्याणि, काष्ठेन देववाहननिर्माणं, देवालयीयानाम् आभरणभूषणानां, पूजावस्तूनां निर्माणं च प्रचलति । मार्गदर्शकाः सन्ति अस्मिन् दैवकार्ये समर्पितचित्ताः निष्ठावन्तः भारतीयाः नित्यानन्दपरिणतकलाविदः ।


पूजासाधनानि देवताप्रतिमानां
विभिन्नाः भागाः च । परमहंसः
मृत्तिकया देवताप्रतिमाः निर्माय
अलङ्कृत्य च श्रद्धया भक्त्या च
पूजयति स्म । तिरुवण्णामलैपरिसरे
निवसद्भिः जनैः परमहंसेन तन्मित्रेण
च निर्मिताः बहवः अद्भुतकृतयः
दृष्टाः सन्ति ।

गणेशेन नैवेद्यं स्वीक्रियते ...
परमहंसः एतस्मै गणेशाय प्रतिदिनं नैवेद्यम् अर्पयति स्म । स्वेन अर्पितं नैवेद्यं परिग्रहीतव्यम् इति सानुरोधं प्रार्थयते स्म, भाययति स्म चापि । कदाचित् तेन पुराणस्था कथा काचित् श्रुता, यत्र च बालकेन अर्पितं नैवेद्यं देवेन साक्षात् सेवितम् इति । मया अर्पितम् एषः गणेशः यथा स्वीकुर्यात् तथा करिष्ये इति दृढं सङ्कल्प्य परमहंसः निर्णीतवान् यत् इतः परं कदापि देवं न भाययिष्यामि इति । सः निश्चितवान् यत् गणेशः यावत् न खादेत् तावत् मया किमपि न स्वीकरिष्यते इति ।

गणेशः
तृतीयदिनस्य अन्ते नैवेद्यम् अदृश्यतां गतम् । नितरां सन्तुष्टः परमहंसः कृतज्ञतातिरेकेण देवं प्रणम्य रुदितवान् । तस्मिन् विद्यमानाः देवभक्तिश्रद्धादयः शतगुणितम् अवर्धन्त ।
द्वादशे वयसि अरुणाचलदेवालये पार्वतीदेव्याः गर्भगृहे स्थितस्य सुवर्णीयस्य कस्यचित् चित्रस्य दर्शनं प्राप्तं परमहंसेन । ततः तस्मिन् गभीरः परिणामः सञ्दृष्टः । सः स्मृतिबलेन एव ताम्रपत्रके नखैः तदेव आरचयत् ।

श्रीचक्रम्
तेन श्रीचक्रस्य चित्रं रचितम् आसीत् यच्च ब्रह्माण्डस्य परमपावित्र्यं सर्वशक्तित्वं च द्योतयति । 'यस्य रचनार्थं समर्थाः कलाविदः एव कष्टम् अनुभवेयुः तादृशस्य नितरां कष्टसाध्यस्य चित्रस्य रचने भवता कथम् एवं लीलया कृतम् ?' इति पृष्टः परमहंसः अवदत्
- ''नव त्रिकोणानि विभिन्नेषु कोणेषु यदि योज्येत तर्हि कार्यं सिद्धम् इव । परिकल्पना यदि अवगता भवेत् तर्हि कोऽपि क्लेशः न अनुभूयेत अत्र !'' इति ।
अद्य
जगति परमहंसेन निर्मितेषु
देवमन्दिरेषु पूजाविधयः महता
वैभवेन निरूह्यन्ते । तेषां दृढः
विश्वासः यत् अनन्तचैतन्येन
संयोक्तुं पूजा अतिविशिष्टम्
आध्यात्मतन्त्रम् इति ।
लास्-एञ्जलिस्-आश्रमस्य
मन्दिरे श्रीविद्यापूजायां
मग्नः पूजाचार्यः ।

धीप्रत्ययात् प्राप्यमाणा शक्तिः मानसिर्की शारीरिकीं च शक्तिम् अतिशेते ।
- परमहंसः

कुप्पम्माळ् परमहंसश्च
मातृश्रीः कुप्पम्माळ् - प्रेरणास्रोत:
अरुणाचले परमहंसस्य आध्यात्मिकवर्धनस्य आरम्भदिनेषु तस्य आध्यात्ममार्गदर्शिका पोषिका च आसीत् ब्रह्मयोगिनी विबुधानन्ददेवी मातृश्रीः कुप्पम्माल् । द्वादशवर्षीयः परमहंसः यदा गभीरान् आध्यात्मिकानुभवान् प्राप्नुवन् आसीत् तदा प्रज्ञायां जायमानानां परिवर्तनानां विषये तं बोधयन्ती विविधान् साधनामार्गान् अबोधयत् एषा । भविष्यतः दृष्ट्या तस्मिन् अपेक्षिताः शारीरक भावनात्मकसज्जताः कृताः एतया कुप्पम्माल्वर्यया ।

इसक्किस्वामिवर्यः
इसक्किस्वामिवर्यः, प्रवर्धमाना आध्यात्मिकता च
तरुणस्य परमहंसस्य प्रमुखेषु प्रेरणास्रोतस्सु अन्यतमः आसीत् महाज्ञानी इसक्किस्वामिवर्यः । बाल्यात् आरभ्य बहूनां ज्ञानिनां सहवासभाग्यं प्राप्तवान् परमहंसः ते सर्वदा कथं परमानन्दपूर्णाः एव भवन्ति इत्यंशम् अवलोकमानः एव अवधेत । तेषु दृश्यमानः सन्तृप्त्यतिशयः नितान्तं सारल्यं च तस्मिन् विद्यमानाम् आध्यात्मिकतृष्णां गभीराम् अकरोत् । =
आत्मपुराणम् इत्येतत् इसक्किस्वामिभिः दत्तम् उपायनम् । परमहंसस्य श्रौताध्ययनस्य आरम्भः इतः एव जातः । =

आत्मपुराणम्
ओलैचुवाडि (ताडपत्रग्रन्थः)

वैदिकमन्त्रयुक्तः अयं
ग्रन्थविशेषः परमहंसेन
इसक्किस्वामिभ्यः प्राप्तः
कश्चन अमूल्यः उपहारः ।
अद्य
परमहंसाश्रमे तरुणाः
ब्रह्मचारिणः
गुरुकुलबालाः च
प्रतिदिनं वेदपारायणं
कुर्वन्ति ।
दैविकस्वरभेदैः सह
स्वरैक्यं साधयन्तः
बालाः प्रज्ञोन्नतिं
प्राप्नुवन्ति ।
गूढतत्त्वज्ञानिना योगिना रामसूरतुकुमारवर्येण सह
विसिरिस्वामिगळ् इति सुविदितः महाज्ञानी महात्मा योगी रामसूरतुकुमारः महात्मनः भगवतः श्रीरमणमहर्षेः समकालीनः । तिरुवण्णामलैपरिसरे एषः सुपरिचितः परमप्रियश्च आसीत् । परमहंसः एतस्य महात्मनः मेलनार्थं नियतरूपेण गच्छति स्म । देवालयस्य रथः यत्र स्थाप्यते तादृशस्य ‘तेमुट्टि’नामकस्य स्थलस्य पार्श्वे स्थितस्य भवनस्य सोपानेषु स्वेन सङ्गृहीतानाम् अवकराणां मध्ये योगी रामसूरतुकुमारः भिक्षुकः इव उपविशति स्म । जनाः गमनागमनावसरे तस्य पुरतः स्थित्वा भविष्यतः विषये तम् उद्दिश्य प्रश्नान् पृच्छन्ति स्म । बालाः विद्यालयगमनावसरे तत्र स्थित्वा परीक्षायाम् उत्तीणता भवेत् उत न इत्यादिकं पृच्छन्ति स्म । अत्यन्तं विरलतया एव तस्य महात्मनः मुखात् प्रतिस्पन्दः प्राप्यते स्म । कदाचित् विद्यालयं गच्छन् परमहंसः तम् उद्दिश्य अपृच्छत् - ‘'किम् अहम् अद्यतनीयायां विद्यालयपरीक्षायाम् उत्तीणतां प्राप्नुयाम् ?’’ इति । तेन उत्तरं प्राप्तं - ‘‘वत्स ! जीवनपरीक्षायां भवता उत्तीणता अवश्यं प्राप्स्यते’’ इति !

तस्मिन् समये तेषां शब्दानाम् अन्तरार्थः परमहंसेन न अवगतः । एतम् एव उद्दिश्य उक्तम् इति ज्ञातवती समीपस्था महिला परमहंसम् अवदत् - "भवान् गच्छतु वत्स ! एतेषां वाक्यानां तात्पर्यं भवता इदानीं न अवगम्येत । परन्तु अग्रे एतस्य अन्तरार्थः भवता अवश्यं ज्ञास्यते एव !" इति ।

तिरुवण्णामलैप्रदेशे सम्पन्ने कस्मिंश्चित् उत्सवे योगी रामसूरत्कुमारवर्यस्य दिव्योपस्थितिः।