अण्णामलैस्वामिवर्यः स्वारोपिता वेदना च
This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.
"सत्येन सह प्रयोगोत्साहः एव तदवगमनाय विद्यमाना कुञ्चिका ।"
- परमहंसः

भगवतः श्रीरमणमहर्षेः साक्षात् शिष्यः आसीत् एषः अण्णामलैस्वामिवर्यः । परमहंसः दशवर्षदेशीयः यदा आसीत् ततः आरभ्य तस्य तिरुवण्णामलैप्रदेशस्थस्य रमणाश्रमस्य सम्पर्कः आरब्धः । सः अण्णामलैस्वामिनः शिष्यैः सह बोधनश्रवणाय नियतरूपेण उपविशति स्म । अण्णामलैस्वामिनः बोधनस्य श्रवणाय गमनस्य प्रमुखं कारणम् आसीत् - अन्ते तेन दीयमानं मधुरखाद्यम् ! अथ कदाचित् मायायाः परिकल्पनां विवृण्वता अण्णामलैस्वामिवर्येण उक्तम् - 'एतत् शरीरं न वयम् । शरीरं न वास्तविकम् । आत्मा एव सत्यम् । आत्मना कापि वेदना न अनुभूयते । कष्टवेदनादिभ्यः अतीताः स्मः वयम्' इति ।
अण्णामलैस्वामिवर्यः
तानि वचनानि परमहंसस्य कर्णे गुञ्जन्ति स्म । गृहम् आगतः परमहंसः
अद्य
अद्य परमहंसः कोटिशः
जनानां प्रेरणास्रोतः अस्ति ।
महात्मनः तस्य
दिव्यसन्निधौ स्थातुम् एव
जनाः आगच्छन्ति
अहमहमिकया ....
पाकशालां प्रविश्य छुरिकां स्वीकृत्य दक्षिणाङ्गुष्ठम् अकर्तयत् – वेदना किम् अनुभूयते इति ज्ञातुम् इच्छन् । महती वेदना अनुभूता तेन । मातुः तर्जनम् अपि प्राप्तम् । वैद्येन नैकैः सीवनैः व्रणचिकित्सा करणीया अभवत् ।
सः अण्णामलैस्वामिनः समीपं गत्वा एतद्विषये विवरणम् अपृच्छत् । अण्णामलैस्वामिवर्येण उक्तं - ''वत्स ! अलं चिन्तया । वेदना अचिरात् एव यथा निर्गच्छेत् तथा किञ्चन साधनातन्त्रं मया बोध्यते । सत्येन सह प्रयोगोत्साहस्वभावः एव भवन्तं सत्यं प्रति निश्चयेन नेष्यति'' इति । एतया घटनया परमहंसस्य सत्यान्वेषणगुणः दृढताम् आप्नोत् ।

आङ्करवाट्, काम्बोडिया