एषः अस्ति नित्यानन्दः नाम
प्रवर्धमाना प्रज्ञा
This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.
अद्य
अत्यपूर्वध्यानकार्यक्रमाणां
द्वारा परमहंसः
सर्वस्मिन् अपि जने
विद्यमानां ध्यानप्रवृत्तिं
जागरयति । सर्वस्मिन्
अपि जने विकासावसरं
सृजति सः .....।
'ध्यानमित्येतत् आत्मदर्शनाय राजकुञ्चिकायते ।'
- परमहंसः
अरुणाचलः परमहंसस्य सर्वस्वम् आसीत् । तत्रत्यः एकैकः अपि शिलाखण्डः, मृत्तिकाकणाः चापि तस्य सत्योत्कटतायाः साक्षिभूताः आसन् । स्वस्य प्रिये अरुणाचले अनवरतं ध्याने मग्नः परमहंसः द्रष्टुं शक्यः आसीत् सर्वदा । कृशः कायः, कान्तियुते नेत्रे । नेत्रयोः प्रखरता तदा एव मृदुत्वम् आप्नोत् यदा अन्तर्दर्शनं प्राप्तम् । (ध्यानमग्नस्य परमहंसस्य विविधभावचित्राणां प्राप्तौ कारणीभूतौ स्तः दूरदृष्टिमन्तौ रघुपतियोगिवर्यः कुप्पम्माल्वर्या च ।)
