KAILASA Library/एषः अस्ति नित्यानन्दः नाम/अस्तित्वेन सह घर्षणम्...Sign in
एषः अस्ति नित्यानन्दः नाम

अस्तित्वेन सह घर्षणम्...

This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.

> “तव हस्तौ यावत् मुक्तौ भवतः तावत् तद्द्वारा नद्याः प्रवहणम् > अनुभोक्तुं शक्यम्। ग्रहीतुं यदा प्रयतिष्यसे, तदा तत् हस्तच्युतं > भविष्यति !” > > - परमहंसः

अरुणाचले ध्यानमग्नः परमहंसः

अरुणाचले ध्यानमग्नः परमहंसः

द्वादशवर्षदेशीयः परमहंसः कदाचित् अरुणाचलपर्वतस्य शिलायाः उपरि उपविश्य ध्याने लीनः आसीत् । वस्तुतः सः अण्णामलैस्वामिभिः बोधितस्य कस्यचन साधनातन्रस्य अभ्यासे निरतः आसीत् । चिन्तनानाम् उद्गमस्य अवलोकनं कुर्वन् आसीत् ।

उपविष्टेन तेन सावधानेन जायमाना आत्मनः विलुप्तिः अनुभूता । तस्यैव वचनैः स च अनुभवः श्रूयताम् - “सहसा आन्तरावकाशस्य अपावरणं मया अनुभूतम् । निमीलितनेत्रः एव अहं सर्वासु दिक्षु (३६०°) द्रष्टुं शक्तः जातः । चर्मणः अन्तः अनुभूयमानः जीवभावः एव बहिर्भूतेषु वस्तुषु अपि मया अनुभूतः । शिलासु, सस्येषु, पुष्पेषु, मां परितः विद्यमानेषु सर्वेषु सजीव-निर्जीव-वस्तुषु च अहं जीवन्नस्मि इत्येषा अनुभूतिः माम् आवृत्य स्थिता आसीत् ।

सः एव प्रथमः गहनः अनुभवः । सर्वस्य विषये मयि परमप्रीतिः अनुकम्पभावश्च अनुभूतः । तस्मात् अनुभवात् चैतन्यविषये मम महान् आदरभावः सञ्जातः । सर्वम् अपि यथार्थभावेन अङ्गीकरणीयम् इत्येषः भावः मम मस्तिष्कं प्राविशत् । आत्मानुभूतेः प्रथमक्षणदर्शनं जातम् एतेनैव अनुभवेन । एतादृशात् एकस्मात् अनुभवात् विद्यमानाः सर्वेऽपि मतधर्मभाषोन्मादाः विलयं यान्ति ।”

परमहंसस्य प्रथमः आध्यात्मानुभवः वैशाखमासस्य बुद्धपूर्णिमादिने सूर्यास्तसमये जातः । (तमिळ्दिनदर्शिकायाः अनुसारं मे-जून्मासयोः अवधौ)

अद्य

तेन यत्र आध्यात्मानुभूतिः प्राप्ता तस्याः पवित्रशिलायाः अभिषेकं कुर्वन्ति परमहंसमार्गोपासकाः ब्रह्मचारिणः परमहंसस्य आध्यात्मानुभूतेः वार्षिकोत्सवदिने ।

पवित्रशिलायाः अभिषेकं कुर्वन्ति ब्रह्मचारिणः

परमहंसः प्रतिदिनम् अरुणाचलं परितः परिक्रमणं करोति स्म।

प्रातः ४ वादने ब्राह्मेमुहूर्ते एव तस्य विहरणस्य आरम्भः भवति स्म । भक्तिगीतानि गायन् त्रिचतुरघण्टाः यावत् सः पर्वतं परितः परिक्रमणं करोति स्म । सः पूर्णतया वर्तमाने एव जीवति स्म। अग्रिमे क्षणे किं भवेत् इति चिन्ता ईषदपि तं न बाधते स्म - मातुः उत्सङ्गे क्रीडतः शिशोः इव ! स्वस्य प्रियस्य अरुणाचलस्य अभिव्यापकत्वे विलसन् मुग्धशिशुः इव भवति स्म सः !

तस्य अन्तर्भागीयात् स्वाधिष्ठानचक्रतः कश्चन चीत्कारः उच्चैः निस्सृतः । स च चीत्कारः परमभयेन उद्गतः आसीत् । तादृशं भयं ततः पूर्वं तदनन्तरकाले वा तेन न अनुभूतम् । चीत्कारेण सहैव तेन अरुणाचलस्य विषये पूर्णशरणागतिः अनुभूता । मम सम्पूर्णं रक्षणम् अरुणाचलेन क्रियते इत्यपि दृढः विश्वासः तस्मिन् उत्पन्नः ।

तरक्ष्वाक्रमणस्य प्रमुखभयम्

सहसा कश्चन वृद्धः तपस्वी कुतश्चित्
तस्य पुरतः उपस्थितः । हस्तस्थेन
दण्डेन सः सर्वान् तरक्षून् ततः दूरं
प्रेषितवान् । तेषां गमनस्य अनन्तरं सः
अदृश्यः जातः । तेन तपस्विना कुतः
आगतं, कुत्र गतम् इति परमहंसेन न
ज्ञातम् एव ।

अथ कदाचित् उषःकालात् अपि पूर्वं, तन्नाम मध्यरात्रसमनन्तरम् एव प्रस्थितः आसीत् सः । तेषु दिनेषु पर्वतं परितः मार्गः दीपः वा न आसीत् । सर्वत्र घ्नारण्यम् एव प्रसृतम् आसीत् । सः कस्याश्चित् कुल्यायाः समीपे यदा गच्छन् आसीत् तदा तरक्षूणां कश्चन गणः तत्र समुपस्थितः । सः तु अधः पश्यन् भक्तिगीतानि गायन् चलति स्म । पूर्णतया सः गाने लीनः आसीत् इत्यतः तरक्षूणाम् आगमनं तेन न लक्षितम् एव आसीत् । मुखम् उन्नीय यावत् तेन दृष्टं तावता तरक्षवः ततः अतिसमीपे एव उपस्थिताः आसन् ।

तस्मात् गभीरचीत्कारात् परमहंसेन स्वशरीरे परमलाघवत्वम् अनुभूतम् । यदा चलनम् आरब्धं तदा प्लवमानः अस्मि इति भावः तेन प्राप्तः । अस्तित्वस्य अभीक्ष्णता एव प्रवृद्धा इव ।

(प्रैमल्-थेरपि इत्येषा आधुनिकमनश्शास्त्रस्य चिकित्सापद्धतिषु अन्यतमा अस्ति । अत्र भावशुद्ध्यवसरे रुग्णैः गभीरचीत्कारः कार्यते । यतः तेन मनसः निगृहीताः नकारात्मकतः भावाः विमुक्ताः भविष्यन्ति इति श्रूयते ।)