KAILASA Library/एषः अस्ति नित्यानन्दः नाम/विद्यालयगमनम् - किञ्चन प्रसङ्गमात्रम्Sign in
एषः अस्ति नित्यानन्दः नाम

विद्यालयगमनम् - किञ्चन प्रसङ्गमात्रम्

This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.

'तीव्रावधानेन कृतं यत्किञ्चन कार्यं ध्यानं भविष्यति । ततः जीवनमेव ध्यानपरं भविष्यति ।'

- परमहंसः

लेख्यपुस्तकानि मन्त्रदिनचर्याश्च

लेख्यपुस्तकानि मन्त्रदिनचर्याश्च

विद्यालयगमनम् इत्येतत् किञ्चन प्रसङ्गमात्रम् आसीत् परमहंसस्य जीवने । विद्यालये रसायनभौतशास्त्रप्रयोगालयेषु सर्वैः सह तेन अपि लेख्यानि लिखितानि । परं ततोऽप्यधिकया श्रद्धया मन्त्रपठनादिकं तेन कृतं, वैदिकविधयः च समनुष्ठिताः ।

तस्य उत्कटाधिक्यस्य निदर्शनभूतानि लेख्यानि अत्र दृश्यन्ते । मन्त्रदिनचर्यायाः कश्चन पुटः पार्श्वे अस्ति, यत्र पूजाक्रमस्य सर्वे विधयः तेन चित्रद्वारा संसूचिताः सन्ति । एतत् पुस्तकं पूजाविधिज्ञानार्थं तस्य शिष्यगणस्य सामान्यजनानां च मार्गदर्शकम् अस्ति अद्य । तस्मिन् कोमले एव वयसि पूजापद्धतिविषये तस्मिन् या आस्था क्रमबद्धयोजना च आसीत् सा नितराम् आश्चर्यं जनयति ।

परमहंसस्य आध्यात्मिकप्रवृत्तिः अनेकदा तस्य मित्राणां दृष्ट्या उपहासपात्रं भवति स्म । केनचित् पृष्टम् आसीत् - 'सुदीर्घः कालः भवता व्यर्थध्यानकरणाय एव याप्यते । तेन किं वा सिद्धयेत् ?' इति । तेन उत्तरितं - 'काले भवता ज्ञायेत' इति ।

अद्य

मम तारुण्ये अहं तादृशं किञ्चन आश्रमस्थानं प्राप्तुम् इष्टवान् यत्र च परमानन्दजीवनस्य रहस्यानि ज्ञातुं शक्यानि भवेयुः । नव वर्षाणि यावत् अन्विष्टवता मया तादृशं स्थानं कुत्रापि न प्राप्तम् एव । विविधेषु स्थानेषु मया अंशशः एव तृप्तिः प्राप्तव्या अभवत् । ज्ञानप्रतिपत्तेः अनन्तरं मम प्रथमः अभिलाषः आसीत् - युवभ्यः तादृशः आश्रयः कल्पनीयः इति !

गुरुकुलं जीवनानन्दतन्त्रपद्धतिश्च (LBT) तस्य एव उत्कटाभिलाषस्य प्रतिफलम् । अत्र युवानः अनन्तेषु आयामेषु अन्वेषणशीलतां विकासशीलतां च अभ्यस्यन्ति । अत्र परिश्रमेण विना कार्यकारणं कथं, गभीरताप्रज्ञया परमानन्दजीवनस्य सृष्टिः कथमिति च जानन्ति ।

- परमहंसः

तमिलुनाडुराज्यं प्रति सद्यः एव कृतस्य प्रवासस्य अङ्गतया स्वस्थाने तिरुवण्णामलैनगरे परमहंसस्य प्रवचनं ध्यानकक्ष्यादयः च सम्पन्नाः । तस्मिन् अवसरे जनपूर्णे सभाङ्गणे आशीर्वादप्राप्त्यर्थं पङ्क्तौ स्थितेषु जनेषु द्वित्रान् तरुणान् निर्दिश्य वेदिकां प्रति आहूतं परमहंसेन । पूर्वम् एतम् उद्दिश्य ये प्रश्नं कृतवन्तः ते एव आसन् एते तरुणाः ! स्वस्य भावावेशैः एव अवरुद्धाः गद्गदकण्ठाः नितरां कम्पमानाः च ते ज्ञानिनः पादस्पर्शं यदा अकुर्वन् तदा सः विनोदेन हसन् परमकरुणया तान् अवलोकमानः प्रीत्या आलिङ्गितवान् ।

अत्युच्चश्रेण्या प्राप्ता डिप्लोमापदवी

तमिलुनाडुराज्यीयस्य गुडियातप्रदेशस्थस्य पालिटेक्निक्‌विद्यालयस्य यान्त्रिकतन्त्रज्ञानविभागात् डिप्लोमापदवी प्राप्ता अस्ति परमहंसेन । कक्ष्यायां श्रद्धया श्रवणमात्रेण एव अत्युच्चा श्रेणी आसादिता अस्ति एतेन । यः महाविद्यालये एतं पाठितवान् आसीत् सः एव केषाञ्चन वर्षाणाम् अनन्तरम् एतस्य प्रथमः दीक्षितरोगहरः जातः अस्ति । =

स्मारकस्थलानि

पवित्रे तिरुवण्णामलैनगरे विद्यमानानि स्मारकस्थलानि एव परमहंसस्य ध्यानकेन्द्राणि आसन् । तस्य गृहगमनं तु मध्यरात्रे उषःकाले वा भवति स्म । स्वस्य समीपे विद्यमानया कुञ्चिकया तालम् उद्घाट्य गृहस्य अन्तः प्रविशति स्म सः । तस्य अकालव्यवहारादिविषयेषु पितृभ्यां कदापि प्रतिरोधोक्तिः न उच्चारिता ।

गुरुकुलम्

गुरुकुलम्

जीवनानन्दतन्त्रपद्धतिः

जीवनानन्दतन्त्रपद्धतिः