KAILASA Library/एषः अस्ति नित्यानन्दः नाम/सत्यान्वेषणाय प्रयासः ...Sign in
एषः अस्ति नित्यानन्दः नाम

सत्यान्वेषणाय प्रयासः ...

This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.

‘आश्रमः कश्चन शक्तिकेन्द्रं, यत्र च अनेके मार्गाः विद्यन्ते अन्तर्मुखतायै ।’

- परमहंसः

गृहत्यागः

गृहत्यागस्य उत्कटेच्छा तस्मिन् बलवती जाता । कस्मिंश्चित् सायङ्काले सा उत्कटेच्छा एताव्ती प्रवृद्धा यत् कार्याचरणम् अनिवार्यम् इति तेन अवगतम् । तेन ज्ञातं यत् प्रस्तुतजीवनं परित्यज्य आत्मना उद्दिष्टं दिव्यं जीवनम् अचिरात् एव आश्रयणीयम् इति । साम्प्रतजीवनं कथञ्चित् अपि सः सोढुं न शक्तवान् एव ।

परमहंसस्य यात्रा

परमहंसः स्वस्य निर्णयम् आदौ मातरं वक्तुम् इष्टवान् । तस्यां तस्य महती प्रीतिः आसीत् । तस्याः दुःखं यावच्छक्यं न्यूनीकर्तुम् इष्टवान् सः । अतः रात्रौ दशवादनसमये सः मातुः समीपं गत्वा अपृच्छत् - ‘यदि अहं मृतः भवेयं तर्हि भवत्या किं क्रियेत ?’ इति । ‘तादृशम् अमङ्गलकरं प्रश्नं किमर्थं पृच्छसि ? का विपत्तिः उपस्थिता अधुना ?’ इति अपृच्छत् माता । परमहंसः अवदत् - ‘न कापि । केवलं ज्ञातुम् इष्टं मया’ इति । ‘किं वा कर्तुं शक्येत ? तथा यदि भवेत् तर्हि मया विना विरोधं तत् अङ्गीकर्तव्यं, तावदेव’ इति उक्तवती सा । ततः सः स्वस्य गृहात् बहिर्गमनस्य निर्णयं ताम् अवदत् । मातुः नेत्रयोः अश्रुधारा । तस्याः शरीरं दुःखेन कम्पमानं निग्रहरहितं च जातम् । ‘भवता कदाचित् गम्येत एव इति पूर्वम् एव मया ऊहितम् आसीत्’ - सा अवदत् । ‘भवत्या मम गमनं न अङ्गीक्रियते किम् ?’ इति अपृच्छत् सः । ‘भवान् गन्तुकामः इति अहं जानामि एव । भवता जीवने यत् कर्तुम् इष्यते तत् क्रियताम् इत्येव मम अपि आशयः । मया अवरोधः न क्रियते । परन्तु भवतः गमनं सोढुं न शक्नोमि । अतः एव मम रोदनम्’ इति उक्तवती सा । मातुः निर्व्याजप्रेमतः परमहंसः व्यामुग्धः जातः । सा नितरां दुःखयुक्ता चेदपि पुत्रेण इष्टम् एव तस्याः अपि इष्टम् आसीत् । मार्गावरोधिका भवितुं कदापि सा न इष्टवती । तस्याः मुग्धता निस्स्वार्थप्रीतिः च तस्य अन्तरङ्गम् अस्पृशत् । स्वमुग्धताविषये सा नितरां मुग्धा आसीत् ।

भारत-नेपालाधिगमनम्

सर्वाणि अपि तीर्थक्षेत्राणि परमात्मशक्तेः केन्द्रस्थानानि । तत्र उपपस्थितिः एव गभीरध्यानसमम् ।

  • परमहंसः

परमहंसस्य उत्कटापेक्षा एव तम् आभारतम् आनेपालं च अनयत् । हिमालयस्य तपोवनात् दक्षिणस्य कन्याकुमारीपर्यन्तं पश्चिमस्य द्वारकातः पूर्वस्य कल्कत्तापर्यन्तं च तेन सञ्चारः कृतः । नवानां वर्षाणां परिव्राजकजीवनात् तस्य अस्तित्वम् अनन्तशक्त्या संयोगानुभूत्यर्थं सज्जं जातम् । तेन क्रान्तं दूरं सामान्यतः ७०,००० मैल्परिमितं, यस्मिन् सहस्राधिकमैल्परिमितं दूरं तेन पद्भ्यां एव क्रान्तम् ।

महावतारः बाबाजी

महावतारः बाबाजी

महावतारः बाबाजी

जीवत्सु हिमालयज्ञानिषु अन्यतमः अस्ति महावतारः बाबाजी । परिव्राजकरूपेण हिमालये अटनावसरे बाबाजी परमहंसाय दर्शनम् अददात् । सन्दर्शनावसरे बाबाजी ‘परमहंसः नित्यानन्दः’ इति एतस्य निर्देशम् अकरोत् । तेनैव नाम्ना अद्य सः सुपरिचितः जातः अस्ति !

हिमालयप्रवासः २००७

अद्य

परमहंसः तदा तदा स्वस्य भक्तवृन्दं हिमालयादीनि शक्तिकन्द्राणि नयति । आध्यात्मभ्रमणद्वारा सर्वस्मिन् अपि अन्तर्दर्शनस्य उत्कटेच्छां परिनिर्माति ।

हिमालयप्रवासः २००७

रुद्राक्षलोलकम्

स्वस्य परिभ्रमणावसरे सः
कुम्भे जलं सम्पूर्य एतत्
रुद्राक्षलोलकम् आदौ
जलस्य उपरि सञ्चाल्य
जलस्य शक्तिं परि-
शीलयति स्म । जलं
योग्यम् इति तेन लोलकेन
निर्दिश्यते चेत् एव तस्य
पानं, न अन्यथा ।

केसरस्यूतः

एषः केसरस्यूतः आपरिव्राजक-
जीवनं तेन सह आसीत्, यस्मिन्
पवित्रं भस्म रक्ष्यते स्म ।

एतैः रूद्राक्षमणिभिः युक्तां
मालां सः आपरिव्राजक-
जीवनं धृतवान् आसीत् ।

रूद्राक्षमणयः