प्रथमं रोगहरकौतुकम्
This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.
१७००० पदौन्नत्ययुतात् हिमालयस्य तपोवनात् प्रत्यागमनावसरे परमहंसः सैनिकवाहनं किञ्चन आरूढवान् । खातस्थलक्रमणावसरे तस्य शरीरम् उपरि उत्प्लुत्य कस्यचन धातुखण्डस्य उपरि अपतत् । स च खण्डः पृष्ठास्थि प्राविशत्, अस्थिभङ्गम् अकरोत् च । तस्य शरीरपरिशीलनं कृतवता वैद्येन सूचितं यत् १५ दिनानि विश्रान्तिः स्वीकरणीया इति । परमहंसेन तस्य सूचनाविषये अवधानम् एव न दत्तम् । प्रत्युत सः स्वस्य करतलेन व्रणितं भागम् अस्पृशत्, तावदेव । ततः हरिद्वारे कृतस्य क्षकिरणीयपरिशीलनस्य फलितांशस्य दर्शनात् सर्वेऽपि आश्चर्यचकिताः, ऋते परमहंसात् । अस्थिभङ्गः अदृश्यतां गतः आसीत् सर्वथा । तदा परमहंसेन स्पष्टतया न ज्ञातम् आसीत् यत् स्वस्य शरीरम् अधिकृत्य कृतः एषः रोगहरस्पर्शः एव अग्रे जगतः कोटिशः जनानाम् अनुग्रहाय भवेत् इति !
अद्य
परमहंसीयाः दीक्षिताः रोगहराः निःशुल्कां नित्याध्यात्मचिकित्सां यच्छन्ति जगति बहुभ्यः जनेभ्यः ।

मणिकर्णिकाघट्टः, वाराणसी - मरणस्य विजयः
पवित्रायाः गङ्गायाः तीरे विद्यमानः अयं दहनप्रदेशः वाराणस्याः अतिपवित्रस्थलत्वेन परिगण्यते । भगवता शिवेन जगतः सृष्टिः अस्मिन् एव स्थाने कृता इति श्रूयते ।
अत्र परमहंसः गभीरं ध्यानं कुर्वन् मरणस्य प्रज्ञापूर्वक़ानुभवं प्राप्तवान् । एतस्य तलस्पर्शिनः अनुभवस्य अनन्तरं तेन अवगतं यत् भूग्रहे येन भयेन सर्वः अपि मानवः पीड्यमानः अस्ति तत् सर्वव्यापि महत् भयं स्वेन जितम् अस्ति इति ।

मणिकर्णिकाघट्टः, वाराणसी

परिव्राजकजीवनम् अनुवर्तयन् परमहंसः स्वस्य २२ तमे वयसि आन्तरानन्दानुभवं प्राप्नोत् । तस्य ज्ञानप्रतिपत्तेः अनन्तरं स्वीकृतं प्रथमं भावचित्रम् एतत् । नेत्रयोः विद्यमानः अग्निः उपशान्तः अस्ति । परमशान्तिमात्रं विराजते । राजशेखरन् इदानीं परमहंसः नित्यानन्दः ।
अद्य
परमहंसः वदति - 'आध्यात्मपर्यटनम् इत्येतत् आध्यात्मत्ववर्धनार्य अत्युत्कृष्टं तन्त्रं प्रक्रिया च अस्ति' इति । ब्रह्मचर्यप्रशिक्षणवर्गे शिक्षार्थिनः परिव्राजकान् इव भिक्षायाचनार्थं प्रेषितवान् आसीत् परमहंसः । तेन उक्तं - 'भिक्षायाचनम् इत्येतत् भावविकारेभ्यः मुक्तिप्राप्तये स्थितं तन्त्रम् अस्ति । भिक्षा भवता यदा याच्यते, तदा न भवेत् प्राप्तस्य विषये सुखानुभूतिः, न वा अनुभूयेत अप्राप्तस्य विषये दुःखम् !' इति ।
