KAILASA Library/एषः अस्ति नित्यानन्दः नाम/ज्ञानप्रतिपत्तेः आरम्भदिनानिSign in
एषः अस्ति नित्यानन्दः नाम

ज्ञानप्रतिपत्तेः आरम्भदिनानि

This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.

अदृश्यशक्त्या नीयमानः परमहंसः मध्यप्रदेशस्य ओङ्कारेश्वरात् दक्षिणभारतस्य तमिलनाडुं प्रति आगत्य कावेरीनद्याः तीरे तात्कालिकनिवासम् अकरोत् । भक्तैः आनीय दत्तम् आहारं स्वीकुर्वन् मुक्तस्थलेषु कुटीरेषु वा वसन् सः बहूनां रोगहरचिकित्साम् अकरोत् । तेन देवपूजाहोमादयः कृताः । सार्वजनिकरूपेण व्यक्तिगतरूपेण च ध्यानकक्षाः सञ्चालिताः । जनानां जीवनसमस्यादिविषये साहाय्यम् आचरितम् । तरुणसंन्यासिनः अद्भुतरोगहरशक्त्यादिविषयिण्यः वार्ताः अचिरात् एव सर्वत्र प्रसृताः ।