KAILASA Library/एषः अस्ति नित्यानन्दः नाम/अपावृतं दर्शनम्Sign in
एषः अस्ति नित्यानन्दः नाम

अपावृतं दर्शनम्

This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.

“आनन्दप्राप्तये अपेक्षिता तन्त्रपद्धतिः मया अपन्न्वष्टा वर्तते । आत्मा अयम् अपूर्वः, अनन्तः च । स्वस्य मूलस्वभावः एव परमानन्ददायकः इति सर्वः अपि यथा अवगच्छेत् तथा करणमेव मम जीवनस्य लक्ष्यम् अपरम् ।

  • परमहंसः

अन्तर्दर्शनेन परमहंसः स्वस्य आश्रमस्य स्थलं दृष्टवान् आसीत् । बेङ्गलूरुनगरात् बहिः ‘बिडदि’ इत्यत्र विद्यमानः पवित्रसङ्केतैः युक्तः अनुगृहीतः कश्चन विशालः प्रदेशः सः । अत्र ६०० वर्षोपेतः कश्चन प्राचीनः वटवृक्षः अस्ति, यत्र च कस्यचित् महात्मनः स्मारकं वर्तते । सः महात्मा तत्रैव बहूनि वर्षाणि अजीवत् । तत् स्थलम् अभिज्ञाय तत्र नित्यानन्दध्यानपीठं निर्मितम् । एतस्य उद्घाटनमहोत्सवः तस्य २६ तमे जन्मदिने २००३ तमस्य वर्षस्य जनवरीमासस्य प्रथमे दिनाङ्के प्रवृत्तः, येन इतिहासे कश्चन नूतनः अध्यायः आरब्धः ।

परमहंसः भूमौ पूजां कुर्वन्