KAILASA Library/एषः अस्ति नित्यानन्दः नाम/अद्यSign in
एषः अस्ति नित्यानन्दः नाम

अद्य

This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.

नित्यानन्दः

परमहंसः जगति कोटिशः जनानां प्रेरणास्त्रोतः अस्ति । स्वस्य सत्यानुभूतितः परमानन्दस्य तान्त्रिकपद्धतिं काञ्चित् प्रणीय उपायनीकृतवान् अस्ति सः सर्वस्मै अपि जनाय ।

तस्य पद्धतिः अस्मासु शारीरकमानसिकस्वास्थ्यं यथा तथैव आध्यात्मशक्तिम् अपि प्रपूरयति । एतस्य पद्धतेः कारणतः अत्यल्पकालावधौ एव जातानि आत्यन्तिकपरिवर्तनानि अनुभूतवन्तः सन्ति जगतः कोटिशः जनाः ।

सर्जनात्मकं लाभदायकं जीवनं कर्तुं यत् साधनम् अपेक्षितं तत् सः ददाति । तेन दर्शयमाना जीवनपद्धतिः अन्तर्बोधनेन अधिष्ठिता भवति, न तु बुद्ध्या सहजप्रवृत्त्या अधिष्ठिता । उत्कृष्टं बाह्यजीवनम् उज्ज्वलम् आन्तर्यजीवनं च युगपदेव कर्तुं मार्गं दर्शयति सः । तस्य शिक्षणं सर्वान् अपि सहजावकाशं प्रापयति, तन्नाम ध्यानपरान् करोति ।

परमहंसः वदति - 'ध्यानमित्येतत् प्रधानकुञ्चिकायते, यया प्रापञ्चिकं यशः आन्तरिकी सन्तुष्टिः च प्राप्तुं शक्या' इति । तदीयैः शक्तिशालिभिः तन्त्रैः प्रक्रियाभिः च युक्तः ध्यानशिक्षणकार्यक्रमः अत्यल्पकालावधौ एव व्यक्तिगतप्रज्ञायाः विकासार्थं विस्तारार्थं च साहाय्यं करोति ।

विविधानि निगूढानि विषयवस्तूनि वैज्ञानिकलेख्ये योजनार्थं परमहंसः जगतः बहुभिः संशोधकैः विज्ञानिभिश्च सह कार्यरतः अस्ति । स्वस्य शरीरस्य नाडीव्यवस्थायाः द्वारा प्राप्तानाम् उपलब्धीनां द्वारा सः जगतः वैद्यकीयक्षेत्रे एव सम्भ्रमं जनयति । विस्मयावहैः अवलोकनैः ज्ञानिनः इदानीं भावयन्ति यत् हृदयरोग-अर्बुदग्रन्थिरोग-मद्यपानव्यसनादीनाम् अवरोधने वेगपरिवर्तने च ध्यानं नितान्तम् उपकरोति इति ।

परमानन्दजीवनसंस्थानम् (iáÑÉ=_äáëë=cçìåÇ~íáçå) इत्येतत् ध्यानशिक्षणाय, जगति अपेक्षितानां परिवर्तनानाम् आनयनाय च परमहंसेन आरब्धं जगद्व्यापि आन्दोलनम् अस्ति । २००३ तमे वर्षे आरब्धम् एतत् आन्दोलनम् इदानीं ३३ देशेषु १००० केन्द्रेषु प्रसृतं वर्तते । परमानन्दजीवनसंस्थानं व्यक्तिपरिवर्तनद्वारा मानवकुलस्य एव परिवर्तने उत्सुकम् अस्ति ।

पवित्रः वटवृक्षः, बिडदी-आश्रमः, भारतम्

नित्यानन्द-ध्यान-विद्यालयाः
(kj^ë ) आध्यात्मप्रयोगालयाः इव
जगति सर्वत्र जनानां सेवायां रताः
सन्ति । तेषु च उत्कृष्टा आन्तरिकी
प्रगतिः सहजं बाह्यवर्धनं चापि = =

हैदराबाद्-आश्रमः, भारतम्

भवति । एतेषु विद्यालयेषु
ध्यानं विज्ञानम् इत्यादिभिः
युक्ताभिः विविधोद्योगिताभिः
आन्तरस्य अवकाशस्य
अन्वेषणार्थं विकासार्थं च

कोलम्बस्-आश्रमः, ओहियो, अमेरिका

अवसराः प्रकल्प्यन्ते । अत्र
उपलभ्यमाने आध्यात्म-
वातावरणे बाह्यान्तर-प्रपञ्चयोः
संयोगेन सन्तृप्तं जीवनं सृष्टं
भवति, यत्र गभीर-प्रज्ञातः
सर्जनात्मिका धीशक्तिः
अङ्कुरिता भवेत् ।

जगतः विविधेषु नित्यानन्द-

ध्यानविद्यालयेषु विविधाः कार्ययोजनाः अनुष्ठीयमानाः सन्ति । मानवकुलस्य सेवार्थं विभिन्नेषु क्षेत्रेषु कार्यानुष्ठाय च नूतनानां विद्यालयानां स्थापनं निरन्तरं प्रचलति । वैविध्यमयेषु स्तरेषु ध्यानकक्ष्याः सामाजिकसेवाकार्याणि च क्रियमाणानि सन्ति जगद्व्यापिना संस्थानेन । नित्याध्यात्मरोगहरपद्धतिद्वारा निःशुल्करोगहरचिकित्साः, युवकेभ्यः निःशुल्कशिक्षणं, कलासंस्कृत्योः प्रोत्साहनं, सत्सङ्गाः, व्यक्तित्वविकासकार्यक्रमाः, सामाजिककार्याणि, निःशुल्कस्वास्थ्यशिबिराणि, नेत्रचिकित्साः, जगतः सर्वेषु अपि आश्रमेषु भोजनव्यवस्था, भारते

आनन्देश्वरदेवालयस्य गर्भगृहम्, बिडदि-आश्रमः

आनन्देश्वरदेवालयस्य गर्भगृहम्, बिडदि-आश्रमः

सेलम्-आश्रमः, भारतम्

सेलम्-आश्रमः, भारतम्

एकवर्षात्मकम्
आध्यात्मशिक्षणं,
बालेभ्यः गुरुकुल-
पद्धत्या शिक्षणम्
इत्यादीनि तेषु
अन्यतमानि ।

लास्-एञ्जलिस्-आश्रमः, अमेरिका

लास्-एञ्जलिस्-आश्रमः, अमेरिका

नित्य-धीरसेवासेनायाः
(kapp) आनन्दसेवकानां
सङ्ख्या निरन्तरं वर्धमाना अस्ति ।
एतस्य दिव्यकार्यस्य परिवर्धनार्थं
स्वेच्छया आत्मानं समर्पितवतां
निष्ठावतां स्वयंसेवकानां एषः
गणः इदानीं समग्रे जगति प्रसृतः
दृश्यते ।

अधिकविवरणाय सम्पर्क्यताम् -

अमेरिकायाम्

káíÜó~å~åÇ~aÜó~å~éÉÉí~ã VTOM=`Éåíê~Éîñ jçåíÅä~áê `^=VNTSP rp^ mÜKNJSOS=RPN=SMSR bã~áäW=~ëÜê~ã[áäÑÉÄäáëëÖI=ëÜçé]áäÑÉÄäáëëÖ roiW=ïï KáäÑÉÄäáëëÖ ==

भारते

नित्यानन्दध्यानपीठम्

नित्यानन्दपुरी
कल्लगोपहळ्ळि
मैसुरुमार्गः, बिडदि
बेङ्गलूरु - ५६२ १०९
कर्णाटकम्

भारतम् mÜKW=VN=HUM=SRRVNUQQ=L=OTOMOMUQ c~ñW=VN=HUM=OTOUUOMT bã~áäW=áä[ÇÜó~å~éÉÉí~ãKçêÖ= roiW=ïï KÇÜó~å~éÉÉí~ãKçêÖ ===ïï==KÇÜó~å~éÉÉí~ãKçêÖ जगतः अन्येषाम् आश्रमाणां केन्द्राणां च विवरणार्थं सम्पर्क्यताम् - ïï KÇÜó~å~éÉÉí~ãKçêÖ