KAILASA Library/एषः अस्ति नित्यानन्दः नाम/योगः पूजाश्चSign in
एषः अस्ति नित्यानन्दः नाम

योगः पूजाश्च

This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.

रघुपतियोगी - सुहृत् शिक्षकश्च

परमहंसस्य पितरौ तदीयस्य आध्यात्मप्रगतौ हस्तक्षेपम् अकुर्वन्तौ तस्य पोषकदायित्वमात्रं निरूढवन्तौ ।

परमहंसः स्वस्य तृतीये वर्षे योगिना रघुपतिमहाराजेन अमिलत् । रघुपतियोगी तान्त्रिकः योगसाधकश्च । भारतटिबेट्-बर्माप्रभृतिषु देशेषु कठोरा योगसाधना कृता आसीत् तेन । बालस्य परमहंसस्य सः सुहृत् शिक्षकश्च आसीत् । भविष्यं मनसि निधाय रघुपतियोगिवर्यः परमहंसस्य तादृशं साहाय्यम् अकरोत्, येन च परमहंसः यौगिकसाधनानां द्वारा आत्मज्ञानस्य प्राप्तये यत् उचितं स्यात् तादृशं शरीरं लभेत ।

रघुपतियोगी

रघुपतियोगी

पराशक्तिः

पराशक्तिः (अवस्थात्मिका शक्तिस्वरूपिणी) पराशक्त्याः दर्शनं प्राप्तवान् परमहंसः स्वयं मृदुशिलया एतां कलाकृतिं निर्मितवान् ।

“योगो नाम देवमानवयोः समागमः । अपस्तत्वाय कृतज्ञतासमर्पणम् एव पूजा नाम ।” - परमहंसः

प्राचीनं किञ्चन चित्रं

प्राचीनं किञ्चन चित्रं
यत्र दृश्यते दशवर्षीयः परमहंसः
अस्ति ध्यानमग्नः ।

रघुपतियोगिवर्यः परमहंसं
दूरदृष्टिः, आकाशसञ्चारः
इत्यादीः इन्द्रियातीताः
असामान्याः विद्याः यद्यपि
अपाठयत्, तथापि तेन एतत् तु
स्मारितं यत् एताः विद्याः
आध्यात्मप्रगतेः द्योतिकाः न
इति । अनन्तसत्यस्य ज्ञानं तु
एतेभ्यः अतीतं किञ्चन लक्ष्यम्
अस्ति इति तेन बोधितम् ।

स्वस्य दशमे वयसि पातञ्जलयोगसूत्रविषये परमहंसः प्रथमं सार्वजनिकं भाषणं यथा कुर्यात् तथा व्यवस्थां कृतवान् एषः रघुपतियोगिवर्यः । करपत्रादिप्रचारद्वारा एतस्य विशिष्टघटनायाः दर्शनार्थं १००० जनान् संम्मेलितवान् आसीत् सः ।

अद्य

रघुपतियोगिवर्यः यत्
क्रान्तिकारकं प्रशिक्षणम्
अयच्छत् तस्मै कृतज्ञतां
समर्पयितुं परमहंसः
‘नित्ययोग’नामकं विनूतनं
योगतन्त्रं लोकाय
समर्पितवान् अस्ति ।
प्रशिक्षिताः निष्ठावन्तः
नित्ययोगाचार्याः एतत्
योगविज्ञानं जगति
कोट्यधिकान् जनान्
पाठयन्तः सन्ति ।

योगाभ्यासः