कुलपुरोहितः
This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.
> “मम जीवतोद्देशः न स्वस्य दैवत्वं निरूपणीयम् इति, > अपि तु भवतः दैवत्वं प्रमाणीकरणीयम् इति ।” > > - परमहंसः
अद्य
स्वस्य भविष्यं ज्ञातुं
मत्समीपं न आगम्यताम् ।
भविष्यरचनार्थम् आगम्यताम् !
ग्रहगतिः कथं निर्देष्टव्या इति
बोधयितुम् अस्मि अहं, न तु
कथम् अनुसर्तव्या इति
कथनार्थम् ।
- परमहंसः
कुलपुरोहितेन लक्षितं यत् परमहंसस्य जन्मकुण्डल्यां सर्वे अपि ग्रहनक्षत्रादयः अत्यपूर्वरीत्या समायोजिताः सन्ति इति । जीवने ऐदम्प्राथम्येन तादृशी जन्मकुण्डली तेन दृष्टा आसीत् । सः तदीयौ मातापितरौ अवदत् - ‘एषः भविष्यति राजसंन्यासी' इति । तादृश्याः अपूर्वायाः जन्मकुण्डल्याः दर्शनभाग्यं प्राप्तवान् सः आत्मानं धन्यम् अमन्यत । कृतार्थभावम् आपन्नः सः तस्मात् दिनात् ज्यौतिषिककार्यम् एव पर्यत्यजत् ।