जन्मप्राप्तिः
This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.
अरुणाचलस्य देदीप्यमाने आध्यात्मपरिवेशे अरुणाचलेश्वरस्य दिव्यसन्निधौ च अरुणाचलम्, लोकनायकी इत्येतयोः दम्पत्योः द्वितीयपुत्रत्वेन जन्म प्राप्नोत् परमहंसः ।
भूलोके जन्मग्रहणात् पूर्वं सर्वः
अपि आत्मा समयं, स्थलं, कुलं,
जीवितोद्देशं च प्रज्ञापूर्वकं
निर्णयति।
- परमहंसः
अरुणाचलपर्वतप्रदेशस्य आध्यात्ममातृसन्निधौ बहवः सज्जनाः महान्तः च सञ्जाताः, यैश्च साधकपरम्पराणां जन्म कृतार्थं कृतम् । यथा शिशोः पोषणाय मातृसन्निधिः अत्यावश्यकः तथा प्रबुद्धात्मनां जन्मावसरे अध्यात्ममातृसन्निधिः अपि नितराम् अपेक्षितः भवति । अरुणाचलतः आगतेषु महात्मसु अन्यतमाः सन्ति - शेषाद्रिस्वामिवर्यः, भगवान् श्री रमणमहर्षिः, योगी रामसूरत्कुमारः इत्यादयः ।

बालः परमहंसः
दक्षिणभारतस्य तिरुपतिं प्रति तीर्थयात्रागमनावसरे परमहंसस्य माता ज्ञातवती यत् स्वस्य गर्भे द्वितीयः शिशुः वर्धमानः अस्ति इति । १९७८ तमस्य वर्षस्य जनवरीमासस्य प्रथमे दिनाङ्के मध्यरात्रे दक्षिणभारतस्य आध्यात्मशक्तिकेंद्रे तिरुवण्णामलैप्रदेशे परमहंसः जन्म प्राप्नोत् । सः राजशेखरः इति नाम्ना अङ्कितः जातः ।

अद्य अरुणाचलः पवित्रः पर्वतप्रदेशः, प्रादुर्भूतशिवस्वरूपः प्रपञ्चस्य साधकानाम् आध्यात्मायस्कान्तः च