KAILASA Library/एषः अस्ति नित्यानन्दः नाम/प्रास्ताविकम्Sign in
एषः अस्ति नित्यानन्दः नाम

प्रास्ताविकम्

This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.

मानवमात्रस्य प्रापञ्चिकी गतिः या कापि स्यात् चेदपि, तस्य अन्तिमं लक्ष्यं तु अस्ति आत्मतत्त्वस्य अवगमनम् एव । स्वानुभूतिमात्रेण एकेन एव मानवः सन्तृप्तिं प्राप्तुं शक्नुयात् । एषः अंशः यदा तेन अवगम्यते तदा सः स्वस्य उद्धारार्थं विपद्युक्तेन अपि मार्गेण गन्तुम् उद्युक्तः भवेत् । पौर्वात्ये जाताः बहवः महनीयाः तस्य साधनाय मानवकुलस्य मार्गदर्शनम् अकुर्वन् ।

तादृशेषु प्रबुद्धात्मसु अन्यतमः अस्ति परमहंसः नित्यानन्दः । अध्यात्मसम्पद्धरिते कुले प्राप्तजन्मा सहजसत्यान्वेषकप्रवृत्तिमान् अयं सुकोमले वयसि, तन्नाम तृतीये वर्षे एव योगध्यानमन्त्रतन्त्रवेदान्तादिषु विषयेषु स्वप्रयोगान् समारब्धवान् आसीत् । आत्मज्ञानस्य प्राप्तिः पूर्वं सः सहस्रशः अन्तर्विज्ञानतन्त्राणि अन्विष्टवान् ।

लक्ष्यैकचित्तः सन् ज्ञानप्रतिपत्तिरूपं स्वस्य लक्ष्यं साधितवान् एषः अद्य जगतः असंख्याकानां जनानां परमप्रेरणादाता सञ्जातः अस्ति । सः सर्वस्मै अपि जनाय अविलम्बस्पष्टताम्, आध्यात्मज्ञानं, ध्यानशिक्षणद्वारा जीवनसमस्यापरिहारं, तत्साधयितुम् आत्मविश्वासं च प्रयच्छति । स्वेन सह प्रयोगं कर्तुं लक्ष्यं साधयितुं च सर्वेभ्यः युवकेभ्यः सः अनन्तान् सम्भावनामार्गान् दर्शयति ।

जनाः स्वयं प्रवर्धमानाः सन्तः अन्तरात्मना संयुक्ताः यथा भवेयुः तथा साहाय्यं करणीयम् इति धिया एव नित्यानन्देन जीवनकार्याणि आरब्धानि सन्ति । तस्य जीवनकार्यम् अस्ति - अस्मिन् लोके आन्तरानन्दविज्ञानं पुनः व्यवस्थापनीयम् इति । अन्तश्शक्तिं साकारीकर्तुं ज्ञानित्वं प्राप्तुं च सः साहाय्यं करोति । सः वदति - "सत्यविषये दृढसङ्कल्पवतां प्रबुद्धानां समाजः अस्माभिः स्रष्टव्यः" इति । सः जगतः विज्ञानिभिः सह कार्यं कुर्वन् विज्ञानाध्यात्मयोः संयोगार्थं निरन्तरं प्रयतते ।

पुस्तकमेतत् ज्ञानदिशि नित्यानन्देन यत् गतं तस्य क्षणदर्शनं करोति । आसक्तिकराणां प्रसङ्गानाम् उपस्थापनेन महतः सत्यस्य विशदीकरणेन च इदं पुस्तकं पदानां द्वारा महानुभूतीनां दिशि वाचकान् नेष्यति । लोके एतत् विदितं यत् महाज्ञानिनां जीवनगाथायाः पठनात् 'अध्यात्मप्रगतिः सम्पादनीया, ज्ञानप्रतिपत्तिः एव प्राप्तव्या' इति उत्कटेच्छा व्यक्तौ उत्पद्यते । भूग्रहे विद्यमानस्य महाज्ञानिनः जीवनगाथायाः क्षणवीक्षणम् अत्र कर्तुं शक्यम् ।

परमहंसस्य विस्तृतायाः जीवनगाथायाः अवगमनार्थम् káíÚó~å~åÇ-sçä=J=N इत्येतत् पुस्तकं क्रेतुम् अर्हन्ति भवन्तः । अस्मिन् पुस्तके तस्य १७ वर्षाणां जीवनस्य उल्लेखः कृतः अस्ति । अग्रिमजीवनसम्बद्धानि पुस्तकानि इतोऽपि प्रकाशनीयानि सन्ति ।