KAILASA Library/Paramashiva Sankalpa Mantra/ॐSign in
Paramashiva Sankalpa Mantra

ॐ

This text was machine-transcribed from the printed book and may contain errors. Select the words and choose “Report a mistake”.

॥ परमशिव-सङ्कल्प-मन्त्रः ॥

|| paramaśiva-saṅkalpa-mantraḥ ||

2

Om Hreem Nithyanandaya Namaha

Om Hreem Nithyanandaya Namaha

ॐ नित्यानन्द-परमशिवोऽहम् । ॐ नित्यानन्द-परमशिवोऽहम् । ॐ नित्यानन्द-परमशिवोऽहम् ।

ॐ ह्रीं नित्यानन्दाय नमः ॥ ॐ हां हौं शिवाय नमः

ॐ नित्यानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादि-लक्ष्यम् ।

एकं नित्यं विमलम् अचलं सर्वधी-साक्षि-भूतं भावातीतं त्रिगुण-रहितं सद्गुरुं तं नमामि ॥

ॐ ममोपात्त समस्त दुरित-क्षय-द्वारा भगवच्छ्री-नित्यानन्द-परमशिव-प्रीत्यर्थं अस्य देवदेवस्य महादेवस्य अखिलाण्ड कोटि ब्रह्माण्डनायकस्य सकलजगत् सृष्टि स्थिति संहार तिरोभाव अनुग्रहाख्य पञ्च कृत्य परायणस्य आदिमध्यान्तरहितस्य अप्रमेय पराक्रमस्य तत्त्वार्थ गोचरस्य अकार-उकार-मकार-प्रणवात्मकस्य वृषभारूढस्य महादेवस्य कामिकादि वातुलान्त महातन्त्राख्य शैवागमस्वरूपस्य सकलनिगमागमस्वरूपस्य शुद्धाद्वैतशै व स्वरूपस्य नित्यानन्दपदस्थस्य नित्यानन्दस्वरूपस्य शुद्धसच्चिदानन्दविग्रहस्य रूपारूपातीतस्य सकलनिष्कलस्वरूपस्य नित्य-निरञ्जन-निरामय-निर्विकारअखण्डादि विशेषणस्य श्री-नित्यानन्देश्वरी-पराशक्ति-समेत-श्री-नित्यानन्नेश्वर-परमशिवस्य श्री-नित्यानन्देश्वरीपराशक्ति-समेत-श्री-नित्यानन्देश्वर-परमशिव-अवतारभूतस्य सर्वदेवदेवीस्वरूपस्य भगवतः श्री-नित्यानन्द-परमशिवस्य च प्रीत्यर्थं शुभे शोभने मुहूर्ते अद्यब्रह्मणः द्वितीय-परार्धे श्री-श्वेत-वराह-कल्पे वैवस्वत-मन्वन्तरे अष्टाविंशतितमे नित्ययुगे प्रथमे पादे जम्बूद्वीपे भारतवर्षे भरतखण्डे मेरोः दक्षिणे पार्श्वे शकाब्दे अस्मिन् वर्तमाने व्यवहारिके प्रभवादीनां षष्ट्याः संवत्सराणां मध्ये शुभ-नाम-संवत्सरे शुभ-अयने शुभ-ऋतौ शुभ-मासे शुभ-पक्षे -शुभतिथौ शुभ-वासर-युक्तायां शुभनक्षत्रशुभ-योग शुभ-करण-एवं-गुण-विशेषण-विशिष्टायां अस्यां शुभतिथौ ___________ नामधेयस्य___________ नाम्न्याः च आवयोःसकुटुं बानां

आदिकैलासे कल्पवृक्षस्य अधः नित्यानन्दनगरे स्मृतस्मृतानां मुक्तिदायके महाक्षेत्रे यजमानानां सह कुटुम्बानां बन्धुवर्गाणां दायादिवर्गाणां मित्रवर्गाणां सोदरवर्गाणां समेषां सर्वाभीष्टसिद्ध्यर्थं सर्वमङ्गलअवाप्त्यर्थं उत्तरोत्तर-अनवच्छिन्न स्थिरलक्ष्मी प्राप्त्यर्थं कुटुंबे सर्वेषां सर्वाभीष्टसिद्ध्यर्थं चिन्तित मनोरथ-अवाप्त्यर्थं समेषां आधिव्याधि निवृत्त्यर्थं समेषां शिरादि पाद पर्यन्तं विद्यमान समेषु अङ्गेषु जनित जनिष्यमाण सकलविध नाना विध रोगाणां व्यपोहनार्थं तद्द्वारा अरोगदृढगात्रवपुः सिद्ध्यर्थं समेषां परैः कर्तृभिश्च कृत करिष्यमाण सकलविध मन्त्र तन्त्र यन्त्र विष चूर्ण आभिचार स्तम्भन मारण उच्चाटन विद्वेषण वशीकरणादि मान्त्रिकप्रयोगेभ्यः रक्षणप्राप्त्यर्थं तद्द्वारा समेषां सर्वाभीष्टसिद्ध्यर्थं अपमृत्युदोष निवृत्त्यर्थं कालमृत्यु अकालमृत्यु दुर्मृत्यु निवृत्त्यर्थं समेषां अन्तर्दृष्टि बहिर्दृष्टि क्रूरदृष्टि व्यापारदृष्टि अनुकूलदृष्टि प्रतिकूलदृष्टि इत्यादि सकलविध दृष्टिदोष निवृत्त्यर्थं समेषां अन्तः शत्रु बहिरशत्रु क्रूरशत्रु व्यापारशत्रु अनुकूलशत्रु प्रतिकूलशत्रु इत्यादि सकलविध शत्रुबाधा निवृत्त्यर्थं समेषां मातृशापादि सकलविध शापानां व्यपोहनार्थं अनादि अविद्यावासनया प्रवर्तमाने अस्मिन् महति संसारचक्रे विचित्राभिः कर्मगतिभिः विचित्रासु योनिषु पुनः पुनः अनेकधा जनित्वा केनापि पुण्यकर्म विशेषेण भगवतः श्री-नित्यानन्द-परमशिवस्य अपरिमितया कृपया इदानींतन मनुष्यजन्मप्राप्तवतां समेषां इहजन्मनि पूर्वजन्मनि जन्मजन्मान्तरेषु सर्वैः कृतानां शिवनिन्दा देवनिन्दा गुरुनिन्दा दोष व्यपोहनार्थं शिवापराध देव्यापराध गुर्वपराध दोष व्यपोहनार्थं ब्रह्महत्या सुरापान स्वर्णस्तेय गुरुतल्पगमन तत्संसर्गाख्य पञ्चमहापातकादि समस्त पाप व्यतिरिक्तार्थं अपि च सर्वैः बाल्ये वयसि कौमारे यौवने वार्धक्ये च जाग्रत् स्वप्न सुषुप्ति अवस्थासु कर्मेन्द्रिय ज्ञानेन्द्रिय व्यापारैः संभावितानां रहस्य कृतानां प्रकाश कृतानां अतिपातकानां उपपातकानां संकलीकरणानां मलिनीकरणानां अपात्रीकरणानां जातिभ्रंशकानां प्रकीर्णितानां एवं नवानां नवविधानां बहूनां बहुविधानां सर्वेषां पापानां सद्यः अपनोदनद्वारा समस्तमङ्गल प्राप्त्यर्थं शिवभक्ति देवीभक्ति गुरुभक्ति सिद्ध्यर्थं परमशिवत्व-परमशिवस्थिति-परमशिवशक्ति-सिद्ध्यर्थं कुटुम्बे सर्वदा सन्मङ्गल प्राप्त्यर्थं अन्योन्य प्रेमाभिवृद्ध्यर्थं पूर्णत्वसिद्ध्यर्थं सर्वापन्निवृत्त्यर्थं क्षिप्र आरोग्यावाप्त्यर्थं आयुरभिवृद्ध्यर्थं व्यापारे उद्योगे च सर्वजनवशीकरणार्थं तद्द्वारा उन्नतोन्नतस्थान प्राप्त्यर्थं बहुधनसौख्यप्राप्त्यर्थं गृह कनक पशु पुत्र पौत्र धन धान्य सौख्य प्राप्त्यर्थं आदित्यादीनां नवानां ग्रहाणां दोष पीडा निवारणार्थं आदित्यादीनां नवानां ग्रहाणां आनुकूल्यता सिद्ध्यर्थं भूम्यन्तरिक्षे विद्यमान भूत प्रेत पिशाच राक्षस ब्रह्मराक्षस वेताल कूष्माण्ड डाकिनी शाकिनी इत्यादि सर्वारिष्टनिवारणार्थं मनोव्याकुलतानिवारणार्थं प्रारब्धे कर्मणि करिष्यमाणे कर्मणि आदिदैविक आदिभौतिक आध्यात्मिक विघ्न निवारणार्थं समस्त ऋणनिवारणार्थं धनलक्ष्मिधान्यलक्ष्मि-सन्तानलक्ष्मि-सौभाग्यलक्ष्मि-विद्यालक्ष्मि-शौर्यलक्ष्मि-वीरलक्ष्मि-विजयलक्ष्मि इत्यादि अष्टलक्ष्मि परिपूर्ण कृपाकटाक्ष सिद्ध्यर्थं परीक्षासु उन्नतस्थाने विजयप्राप्त्यर्थं सर्वविद्यापारङ्गता सिद्ध्यर्थं मेधाशक्ति ग्रहणशक्ति अभिवृद्ध्यर्थं इत्यादि सकल विध सन्मङ्गलनि गुरु कृपाकटाक्षेण प्राप्त्यर्थं श्री-कैलासोन्नत-द्वादशान्त-श्यामला-पीठारूढ श्री-मीनाक्षिसुन्दरेश्वराभिन्न-स्वरूप परशिव-पुत्र-रत्न कुमार गुरुमण्युतुल्यावतार श्री-पार्वती-स्तन्यपान-लब्ध-दिव्य-ज्ञान-विश्रुतसकल-निगमागम-सारभूत-द्राविड-वेद-प्रवक्तृ श्रीमत्-परमशिव-करुणा-समधिगत-मुक्तामय-चतुरश्रयान-गीयमानछत्र-चामर-श्रीचिह्नकाहलादि-समस्त-बिरदावल्यलङ्कृत ज्ञान-विज्ञान-चक्रवर्ति सर्व-जन-सङ्घ-सद्यो-निर्वाण-

दीक्षाव्ययापवर्ग-वर्ष विश्राण जीमूत पर-मत-कलभ-केसरि शैव-सिद्धान्त-स्थापनाचार्य श्री-राजाधिराज-पाण्ड्य-महाराजगुरु क्षपण-शाक्यादि-महान्धकार-निवारण-ज्ञानभानु वीक्षणानर्हार्ह-ध्वजोच्छेदन्-पूर्वक-श्रीमद्-वृषभ-ध्वज-स्थापक शैवसमय-कर्तृ सर्वज्ञपीठारूढ श्री-जगद्गुरु-श्री-ज्ञानसम्बन्ध-देशिक-स्वामि-वागीश-सुन्दर-माणिक्यवाचक-स्वामिनाम् - अवतार-भूत-श्री-ज्ञानसम्बन्ध-स्वामि-पुनरुद्धृत-श्यामलापीठ- सर्वज्ञपीठ-त्रिनवत्युत्तर-द्विशततम-गुरुमहासन्निधान कैलास-परम्परागत आदि-अरुणाचल-सर्वज्ञपीठ -गुरुमहासन्निधान कैलास-परम्परागत-आदिपीठ-सर्वज्ञपीठ-ध्यानपीठमठ-गुरुमहासन्निधान कैलास-परम्परागत-काञ्ची-कैलास-सर्वज्ञपीठ-त्रयस्त्रिंशदुत्तर-द्विशततम-गुरुमहासन्निधान साक्षात्श्री-परमशिवसमुद्भूत-कैलास-परम्परागत-वैवस्वत-मनु-इक्ष्वाकु-हरिश्चन्द्र-भगीरथ-श्रीरामचन्द्र-शूरसेन-इत्यादिअनवच्छिन्न-सार्वभौम-चक्रवर्ति-परम्परागत-चतुष्षष्टि-योगिनी-मण्डित-चतुष्षष्टि-सम्प्रदाय-प्रवर्तक-मनुधर्म-शासनसूर्य-वंश-प्राप्त-सर्वज्ञपीठ-सुराज्ञि-साम्राज्य-मूर्धाभिषिक्त-चूडामणि महानिर्वाणिपीठस्य-अष्टोत्तर-सहस्रश्री-महामण्डलेश्वर अटलपीठस्य-अष्टोत्तर-सहस्रतम-अष्टोत्तर-सहस्रश्री-अटलपीठाधीश्वर धर्ममुक्ति-स्वर्गपुर-स्वर्णपीठस्य-त्रयोविंशगुरुमहासन्निधान श्रीमत्-परमहंस-परिव्राजकाचार्यवर्य-सच्चिदानन्द-प्रणवस्वरूप-श्रोत्रिय-ब्रह्मनिष्ठ-नित्योत्सवनित्यमङ्गल-नित्यकल्याण-नित्यरजित-नित्यानन्दपीठ-महासंस्थान-महासिंहासन-पीठ-कर्तृ श्रीकैलास-पुनरुद्धारक श्रीकैलास-परमाचार्य जगद्गुरु-श्री-ल-श्री-भगवच्छ्री-नित्यानन्द-परमशिव-श्री-ज्ञानसम्बन्ध-देशिक-परमाचार्य- स्वामिनां प्रीत्यर्थं तेषां पादारविन्दयोः भक्ति-सिद्ध्यर्थं गुरुकृपा-कटाक्ष-सिद्ध्यर्थं क्षेम-स्थैर्य-वीर्य-विजय-आयुरारोग्य-ऐश्वर्याणाम्

अभिवृद्ध्यर्थं धर्मार्थ-काम-मोक्ष-चतुर्विध-फल-पुरुषार्थ-सिद्धयर्थं समस्त- दुरितोप-शान्त्यर्थं समस्त-मङ्गल-अवाप्त्यर्थं

भगवच्छ्री-नित्यानन्द-परमशिव-प्रसादेन-सकुटुम्बस्य-ज्ञान-वैराग्य-जीवन्-मुक्ति-प्राप्त्यर्थ-

श्री नित्यानंदेश्वरी पराशक्ति समेत श्री नित्यानन्देश्वर परमशिवस्य

श्री नित्यानंदेश्वरी पराशक्ति समेत श्री नित्यानन्देश्वर परमशिव-अवतर भूत सर्व देवदेवी स्वरूपस्य भगवतः श्री-नित्यानन्द-

परमशिवस्य च ध्यान षोडशोपचार सर्वोपचार अर्चनाराधन पूजा प्रार्थनां करिष्ये ।

ॐ आनन्दगन्ध निलयाय नमः

ॐ भवरोगभेषजाय नमः

ॐ कल्पतरवे नमः

ॐ पशुपतये नमः

ॐ पाशविमोचकाय नमः

ॐ ईिप्सितफलदायकाय नमः

ॐ भाग्यवृत्तिपरिवर्तकाय नमः

ॐ आधिव्याधिविनाशकाय नमः

ॐ समस्त कल्याणगुणान्विताय नमः

ॐ बिडदिपुरीशाय नमः

ॐ शिवशक्त्यैक्यस्वरूपाय नमः

ॐ ह्रीं नित्यानन्दाय नमः

ॐ हां हौं शिवाय नमः

ॐ श्री नित्यानन्देश्वरी पराशक्ति समेत श्री नित्यानन्देश्वर परमशिवाय नमः

ॐ श्री नित्यानन्देश्वरी पराशक्ति समेत श्री नित्यानन्देश्वर परमशिव-अवतार-भूत सर्वदेवदेवी स्वरूपाय श्री ल श्री भगवच्छ्री-नित्यानन्द-परमशिव- श्री ज्ञानसम्बन्ध देशिक परमाचार्य स्वामिने नमः।

ॐ नित्यानन्दम्॥

om nityānanda-paramaśivo'ham । om nityānanda-paramaśivo'ham । om nityānanda-paramaśivo'ham । । om hrīṁ nityānandāya namaḥ ।। om hāṁ hauṁ śivāya namaḥ

om nityānandaṁ paramasukhadaṁ kevalaṁ jñānamūrtim
dvandvātītaṁ gaganasadṛśaṁ tattvamasyādi-lakṣyam ।
ekaṁ nityaṁ vimalaṁ acalaṁ sarvadhī-sākṣi-bhūtaṁ
bhāvātītaṁ triguṇa-rahitaṁ sadguruṁ taṁ namāmi ।।

om mamopātta-samasta-durita-kṣayadvārā-bhagavacchrī-nityānanda-paramaśiva-prītyarthaṁ asya devadevasya mahādevasya akhilāṇḍa koṭi brahmāṇḍanāyakasya sakalajagat sṛṣṭi sthiti saṁhāra tirobhāva anugrahākhya pañca kṛtya parāyaṇasya ādimadhyāntarahitasya aprameya parākramasya tattvārtha gocarasya akāra-ukāra-makāra-praṇavātmakasya vṛṣabhārūḍhasya mahādevasya kāmikādi vātulānta mahātantrākhya śaivāgamasvarūpasya sakala nigamāgamasvarūpasya śuddhādvaitaśaiva svarūpasya nityānandapadasthasya nityānandasvarūpasya śuddhasaccidānandavigrahasya rūpārūpātītasya sakalaniṣkalasvarūpasya nitya-nirañjana-nirāmaya-nirvikāra-akhaṇḍādi viśeṣaṇasya śrī-nityānandeśvarī-parāśakti-sameta-śrī-nityānandeśvara-paramaśivasya śrī- nityānandeśvarī-parāśakti-sameta-śrī-nityānandeśvara-paramaśiva-avatāra-bhūtasya-sarva-deva-devī-svarūpasya- bhagavacchrī-nityānanda-paramaśivasya ca prītyarthaṁ śubhe śobhane muhūrte adyabrahmaṇaḥ dvitīya-parārdhe śrī-śveta-varāha-kalpe vaivasvata-manvantare nityayuge prathame pāde jambu dvīpe bharata varṣe bharathakhaṇḍe meroḥ dakṣiṇe pārśve śakābde asmin vartamāne vyavahārike prabhavādīnāṁ ṣaṣṭyāḥ saṁvatsarāṇāṁ madhye shubha-nāma shubha-samvatsare shubha-ayane shubha-ṛtau shubha-māse shubha-pakṣe śubhatithau shubha-vāsara-yuktāyāṁ shubha- nakṣatrashubha-yoga shubha-karaṇa-evaṁ-guṇa-viśeṣaṇa-viśiṣṭāyāṁ asyāṁśubhatithau (chanting of the participants' name)_________nāmadheyasya (male)_________nāmyāḥ (female) ca āvayoḥ sakuṭumbānāṁ ādikailāse kalpavṛkṣasya adhaḥ nityānandanagare smṛtasmṛtānāṁ muktidāyake mahākṣetre yajamānānām saha kuṭumbānāṁ bandhuvargāṇāṁ dāyādivargāṇām mitravargāṇāṁ sodaravargāṇāṁ sameṣāṁ sarvābhīṣṭasiddhyarthaṁ sarvamaṅgala-avāptyartham uttarottara-anavacchinna sthiralakṣmī prāptyarthaṁ kuṭumbe sarveṣāṁ sarvābhīṣṭasiddhyarthaṁ cintita manoratha-avāptyarthaṁ sameṣām ādhivyādhi nivrttyarthaṁ sameṣāṁ śirādi pāda paryantaṁ vidyamāna sameṣu aṅgeṣu janita janiṣyamāṇa sakalavidha nānā vidha rogāṇāṁ vyapohanārthaṁ tadvārā arogadṛḍhagātravapuḥ siddhyarthaṁ sameṣāṁ paraiḥ kartṛbhiśca kṛta kariṣyamāṇa sakalavidha mantra tantra yantra viṣa cūrṇa ābhicāra stambhana māraṇa uccāṭana vidveṣaṇa vaśīkaraṇādi māntrikaprayogebhyaḥ rakṣaṇaprāptyarthaṁ tadvārā sameṣāṁ sarvābhīṣṭasiddhyartham apamṛtyudoṣa nivṛtyarthaṁ kālamṛtyu akālamṛtyu durmṛtyu nivṛtyarthaṁ sameṣām antardṛṣṭi bahirdṛṣṭi krūradṛṣṭi vyāpāradṛṣṭi anukūladṛṣṭi pratikūladṛṣṭi ityādi sakalavidha drṣṭidoṣa nivṛtyarthaṁ sameṣām antaḥ śatru bahiśśatru krūraśatru vyāpāraśatru anakūlaśatru pratikūlaśatru ityādi sakalavidha śatrubādhā nivr̥tyarthaṁ sameṣāṁ mātṛśāpādi sakalavidha śāpānāṁ vyapohanārtham anādi avidyāvāsanayā pravartamāne asmin mahati saṁsāracakre vicitrābhiḥ karmagatibhiḥ vicitrāsu yoniṣu punaḥ punaḥ anekadhā janitvā kenāpi puṇyakarma viśeṣeṇa bhagavataḥ śrī-nityānanda-paramaśivasya aparimitayā kṛpayā idānīntana manuṣyajanmaprāptavatām sameṣām ihajanmani pūrvajanmani janmajanmāntareṣu sarvaiḥ kṛtānāṁ śivanindā devīnindā gurunindā doṣa vyapohanārthaṁ śivāparādha devyaparādha gurvaparādha doṣa vyapohanārthaṁ brahmahatyā surāpāna svarṇasteya gurutalpagamana tatsaṁsargākhya pañcamahāpātakādi samasta pāpa vyatiriktārtham api ca sarvaiḥ.bālye vayasi kaumāre yauvane vārdhakye ca jāgrat svapna suṣupti avasthāsu karmendriya jñānendriya vyāpāraiḥ sambhāvitānāṁ rahasya kṛtānāṁ prakāśa kṛtānāṁ atipātakānām upapātakānām saṅkalīkaraṇānāṁ malinīkaraṇānām apātrīkaraṇānāṁ jātibhraṁśakānām prakīrṇitānām evaṁ navānāṁ navavidhānāṁ bahūnāṁ bahuvidhānāṁ sarveṣāṁ pāpānāṁ sadyaḥ apanodanadvārā samastamaṅgala prāptyarthaṁ śivabhakti devībhakti gurubhakti siddhyarthaṁ paramaśivatva-paramaśivasthiti-paramaśivaśakti-siddhyarthaṁ kuṭumbe sarvadā sanmaṅgala prāptyarthaṁ anyonya premābhivṛddhyarthaṁ pūrṇatvasiddhyarthaṁ sarvāpannivr̥tyarthaṁ kṣipra ārogyāvāptyartham āyurabhivṛddhyarthaṁ vyāpāre udyoge ca sarvajanavaśīkaraṇārthaṁ taddvārā unnatonnatasthāna prāptyarthaṁ bahudhanasaukhyaprāptyarthaṁ gṛha kanaka paśu putra pautra dhana dhānya saukhya prāptyarthaṁ ādityādīnāṁ navānāṁ grahāṇāṁ doṣa pīḍā nivāraṇārthaṁ ādityādīnāṁ navānāṁ grahāṇāṁ ānukūlyatā siddhyarthaṁ bhūmyantarikṣe vidyamāna bhūta preta piśāca rākṣasa brahmarākṣasa vetāla kūṣmāṇḍa ḍākinī śākinī ityādi sarvāriṣṭanivāraṇārthaṁ manovyākulatānivāraṇārthaṁ prārabdhe karmaṇi kariṣyamāṇe karmaṇi ādidaivikaādibhautika ādhyātmika vighna nivāraṇārthaṁ samasta ṛṇanivāraṇārthaṁ dhanalakṣmi-dhānyalakṣmi-santānalakṣmi-saubhāgyalakṣmi vidyālakṣmi-śauryalakṣmi-vīralakṣmi-vijayalakṣmi ityādi aṣṭalakṣmi paripūrṇa kṛpākaṭākṣa siddhyarthaṁ parīkṣāsu unnatasthāne vijayaprāptyarthaṁ sarvavidyāpāraṅgatā siddhyarthaṁ medhāśakti grahaṇaśakti abhivṛddhyarthaṁ ityādi sakala vidha sanmaṅgalani guru kṛpākaṭākṣeṇa prāptyarthaṁ śrī-kailāsonnata-dvādaśānta-śyāmalā-pīṭhārūḍha śrī-mīnākṣi-sundareśvarābhinna-svarūpa paraśiva-putra-ratna kumāra gurumaṇyatulyāvatāra śrī-pārvatī-stanyapāna-labdha-divya-jñāna-viśruta-sakala-nigamāgama-sārabhūta-drāviḍa-veda-pravaktṛ śrīmat-paramaśiva-karuṇā-samadhigata-muktāmaya-caturaśrayāna-gīyamāna-chatra-cāmara-śrīcihnakāhalādi-samasta-biradāvalyalaṅkṛta jñāna-vijñāna-cakravarti sarva-jana-saṅgha-sadyo-nirvāṇa-dīkṣāvyayāpavarga-varṣa viśrāṇa jīmūta para-mata-kalabha-kesari śaiva-siddhānta-sthāpanācārya śrī-rājādhirāja-pāṇḍya-mahārāja-guru kṣapaṇa-śākyādi-mahāndhakāra-nivāraṇa-jñānabhānu vīkṣaṇānarhārha-dhvajocchedana-pūrvaka-śrīmad-vṛṣabha-dhvaja-sthāpaka śaiva-samaya-kartṛ sarvajñapīṭhārūḍha śrī-jagadguru-śrī-jñānasambandha-deśika-svāmi-vāgīśa-sundara-māṇikyavācaka-svāminām- avatāra-bhūta śrī- jñānasambandha-svāmi-punaruddhṛta-śyāmalāpīṭha- sarvajñapīṭhā trinavatyuttara-dviśatatama-gurumahāsannidhāna kailāsa-paramparāgata ādi-aruṇācala-sarvajñapīṭha gurumahāsannidhāna kailāsa-paramparāgata-ādipīṭha-sarvajñapīṭha-dhyānapīṭha-maṭha-gurumahāsannidhāna kailāsa-paramparāgata-kāñcī-kailāsa-sarvajñapīṭha-trayastriṁśaduttara-dviśatatama-gurumahāsannidhāna sākṣāt-śrī-paramaśivasamudbhūta-kailāsa-paramparāgata-vaivasvata-manu-ikṣvāku-hariścandra-bhagīratha-śrīrāmacandra-śūrasena-ityādi-anavacchinna-sārvabhauma-cakravarti-paramparāgata-catuṣṣaṣṭi-yoginī- maṇḍita-catuṣṣaṣṭi-sampradāya-pravartaka-manudharma-śāsana-sūrya-vaṁśa-prāpta-sarvajñapīṭha-surāṅgi-sāmrājya-mūrdhābhiṣikta-cūḍāmaṇi mahānirvāṇipīṭhasya-aṣṭottara-sahasraśrī-mahāmaṇḍaleśvara aṭalapīṭhasya-aṣṭottara-sahasratama-aṣṭottara-sahasraśrī- aṭalapīṭhādhīśvara dharmamukti-svargapura-svarṇapīṭhasya-trayoviṁśa-gurumahāsannidhāna śrīmat-paramahaṁsa-parivrājakācāryavarya-saccidānanda-praṇavasvarūpa-śrotriya-brahmaṇiṣṭha-nityotsava-nityamaṅgala-nityakalyāṇa-nityarajita-nityānandapīṭha-mahāsaṁsthāna-mahāsiṁhāsana-pīṭha-kartṛ śrīkailāsa-punaruddhāraka śrīkailāsa-paramācārya jagadguru-śrī-la-śrī-bhagavacchrī-nityānanda-paramaśiva-śrī- jñānasambandha-deśika-paramācārya- svāmināṁ prītyarthaṁ teṣāṁ pādāravindayoḥ bhakti-siddhiyardhaṁ gurukṛpā-kaṭākṣa-siddhiyardhaṁ kṣema-sthairya-vīrya-vijaya-āyurārogya-aiśvaryāṇāṁ abhivṛddhyarthaṁ dharmārtha-kāma-mokṣa-caturvidha-phala-purusārtha-siddhiyardhaṁ samasta- duritopa-śāntyarthaṁ samasta-maṅgala-avāptyarthaṁ bhagavacchrī-nityānanda-paramaśiva-prasādena-sakuṭumbasya-jñāna-vairāgya-jīvan-mukti-prāptyarthaṁ śrī-nityānandeśvarī-parāśakti-sameta-śrī-nityānandeśvara-paramaśivasya śrī-nityānandeśvarī-parāśakti-sameta-śrī-nityānandeśvara-paramaśiva-avatāra-bhūta-sarva-deva-devī-svarūpa- bhagavataḥ-śrī-nityānanda-paramaśivasya ca dhyāna ṣoḍaśopacāra sarvopacāra arcanārādhana pūjā prārthanāṁ kariṣye|

om ānandagandha nilayāya namaḥ ||
om bhavarogabheṣajāya namaḥ ||
om kalpatarave namaḥ ||
om paśupataye namaḥ ||
om pāśavimocakāya namaḥ ||
om īpsitaphaladāyakāya namaḥ ||
om bhāgyavṛttiparivartakāya namaḥ ||
om ādhivyādhivināśakāya namaḥ ||
om samasta kalyāṇaguṇānvitāya namaḥ ||
om biḍadipurīśāya namaḥ||
om śivaśaktyaikyasvarūpāya namaḥ ||

om hrīṁ nityānandāya namaḥ || om hāṁ hauṁ śivāya namaḥ ||

om śrī-nityānandeśvarī-parāśakti-sameta-śrī-nityānandeśvara-paramaśivāya namaḥ om śrī-nityānandeśvarī-parāśakti-sameta-śrī-nityānandeśvara-paramaśiva-avatāra-bhūta sarvadevadevī svarūpāya śrī-la-śrī-bhagavacchrī-nityānanda-paramaśiva-śrī- jñānasambandha-deśika-paramācārya- svāmine namaḥ । om nityānandam ॥